विनाप्यर्थैर्वीरः...
सुभाषितम्
विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं
समायुक्तोऽप्यर्थैः परिभवपदं याति कृपणः ।
स्वभावादुद्भूता गुणसमुदयावाप्तिविषया
द्युतिं सैंहीं किं श्वा धृतकनकमालोऽपि लभते ॥
vināpyarthairvīraḥ spṛśati bahumānonnatipadaṃ
samāyukto:'pyarthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ ।
svabhāvādudbhūtā guṇasamudayāvāptiviṣayā
dyutiṃ saiṃhīṃ kiṃ śvā dhṛtakanakamālo:'pi labhate
पदच्छेदः
विना, अपि, अर्थैः, वीरः, स्पृशति, बहुमानोन्नतिपदं, समायुक्तः, अपि, अर्थैः, परिभवपदं, याति, कृपणः, स्वभावात्, उद्भूता, गुणसमुदयावाप्तिविषया, द्युतिं, सैंहीं, किं, श्वा, धृतकनकमालः, अपि, लभते ।
तात्पर्यम्
धनविहीनः अपि वीरः औन्नत्यं प्राप्नोति । सकलसम्पदा सहितः अपि कृपणः अवनतिं याति । उन्नतिः अवनतिश्च स्वभावात् प्राप्यते, उत्तमगुणेन च सम्पाद्यते । यथा शुनकः कनकमालां धरति चेत् सः मृगराजस्य सिंहस्य स्थानं प्राप्तुं न शक्नोति ।