विनायकदामोदरसावर्करः

विनायकदामोदरसावर्करः (मे २८, १८८३ - फेब्रवरी २७, १९६६) भारतीयक्रान्तिकारी हिन्दुनायकश्च आसीत् । हिन्दुत्वसिद्धान्तस्य राजनैतिकपरिकल्पना तेनैव दत्ता ।

अमृतवचनानि सम्पाद्यताम्

वैदिक-पौराणिककालयोः सकृत् दृष्टिपातं कुर्मः चेत्, एवं तु स्फुटं दृश्यते यत् अस्माकं ये पूर्वजाः देवाः, सम्राजः, युद्धस्तोत्राणाम् उद्गातारः, वैदिकाः ऋषयः, पौराणिकाः, महाकाव्यप्रणेतारः च दैत्य-दानव-राक्षसादिभिः अघोरि-मायावि-क्रूरैः नरभक्षिशत्रुभिः सह सङ्घर्षं कृतवन्तः ते सर्वे प्रतिस्पर्धिनाम् अपेक्षया अधिकतया अघोरि-मायावि-क्रूरवृत्तिम् आश्रित्य प्रतिराक्षसाः अभवन् । शत्रूणां युद्धनीत्यनुसारं स्वयुद्धनीतिं परिवर्तितवन्तः । शठं प्रति शाठ्यम् इव तेषाम् आचरणम् आसीत् । अतः एव तस्मिन् युगे अस्माकं पूर्वजाः सफलाः जाताः । तस्य फलस्वरूपेणैव प्रबलं राष्ट्रम् अस्माकं प्रबलतरं विस्तृतं च जातम् । राक्षसान् जेतुम् इतोऽपि विस्तृतम् अभवत् । राक्षसान् जेतुम् अस्माभिरपि प्रतिराक्षसैः भवितव्यम् इति अस्माकं देवाः देवतुल्यसम्राजः च चिन्तयन्ति स्म । एतत् अस्माकं धर्मस्य पवित्रं कर्तव्यम् इति तैः भावितम् आसीत् ।