कस्यचिद् विषयस्य उभयविधविचारस्य शक्यतायां कस्यापि एकस्य एव विचारस्य अवलम्बनं करणीयम् । एवम् एकपक्षस्य अवलम्बनं विनिगमनं भवति । ज्योतिषशास्त्रे सूर्यसिद्धान्तम् अनुसृत्य प्रवर्तमानं गणितम् अतीव सूक्ष्मं भवति । केषाञ्चन विदुषां मते दृग्गणितात् प्राप्तम् एव अतीव सूक्ष्मं भवति इति । तदा दृग्गणितम् विनिगमकं भवति । परम् एवमपि सूर्यसिद्धान्तानुसारिणः अतिसूक्ष्मा इति वचनम् अयोग्यं भवेत् ।

"https://sa.wikiquote.org/w/index.php?title=विनिगमनाविरहन्यायः&oldid=11102" इत्यस्माद् प्रतिप्राप्तम्