विपत्तिष्वव्यथो धीरः...

सुभाषितम्

विपत्तिष्वव्यथो धीरः नित्यमुत्थानवान् नरः ।
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ॥




तात्पर्यम्

यः आपत्काले दुःखम् अननुभवन् धैर्येण तिष्ठेत्, सदा प्रगतिपथे अग्रे सरेत्, जागरूकः, विनीतश्च भवेत् सः सर्वदा मङ्गलमेव पश्यति ।