विरम विरसायात्...
सुभाषितम्
विरम विरसायासादस्माद्दुरध्यवसायतो
विपदि महता धैर्यध्वंसं यदीक्षितुमीहसे ।
अयि जडविधे कल्पापायव्यपेतनिजक्रमाः
कुलशिखरिणं क्षुद्रा नैते न वा जलगशयः ॥
virama virasāyāsādasmādduradhyavasāyatō
vipadi mahatā dhairyadhvaṁsaṁ yadīkṣitumīhasē ।
ayi jaḍavidhē kalpāpāyavyapētanijakramāḥ
kulaśikhariṇaṁ kṣudrā naitē na vā jalagaśayaḥ
पदच्छेदः
विरम, विरसायाद्, अस्माद्, दुरध्यवसायतः, विपदि, महता, धैर्यध्वंसं, यदि, ईक्षितुम्, ईहसे, अयि, जडविधे, कल्पापायव्यपेतनिजक्रमाः, कुलशिखरिणं, क्षुद्राः, न, एते, न, वा, जलगशयः ।
तात्पर्यम्
महापुरुषाणां धीराणां धैर्यम् आपद्गते नष्टं भवति इति यदि द्रष्टुमिच्छति तर्हि तत् निश्चयं त्यक्तव्यमेव । युगान्ते स्थिरतया स्थिताः पर्वताः अगाधं समुद्रमपि नष्टं भवति । किन्तु धीराणां धैर्यं तथा न भवति । धीराः पर्वतवत् समुद्रवत् च तुच्छाः न भवन्ति ।