सुभाषितम्

विरहोपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् ।
यदि हृदयन्तु विघटितं समागमोऽपि विरहं विशेषयति ॥




तात्पर्यम्

मनसां समञ्जनं यदि स्यात् तर्हि तेषां विरहः अपि (अहोरात्रस्मरणात्) सङ्गमः एव । किन्तु येषां हृदयानि विघटितानि सन्ति तेषां समागमः अपि विरहवत् दुःखदायकमेव भवति ।

"https://sa.wikiquote.org/w/index.php?title=विरहोपि_सङ्गमः_खलु...&oldid=15004" इत्यस्माद् प्रतिप्राप्तम्