विराजराजपुत्रारेः यन्नाम चतुरक्षरम् ।
पूर्वार्धं तव वैरीणां परार्धं तव सङ्गरे ॥

विः - पक्षी, विराजः - पक्षिणां राजा - गरुडः, विराजराजः - गरुडस्य स्वामी विष्णुः,
विराजराजपुत्रः - विष्णोः पुत्रः मन्मथः, विराजराजपुत्रारिः - मन्मथस्य शत्रुः ईश्वरः ।
तस्य चतुर्वर्णयुक्तं नाम - मृत्युञ्जयः । तस्य प्रथमार्धम् - मृत्युः - भवतः शत्रूणां, परार्धः -
जयः - भवतः भवतु ।

उत्तरम्

मृत्युञ्जयः
"https://sa.wikiquote.org/w/index.php?title=विराजराजपुत्रारेः...&oldid=3294" इत्यस्माद् प्रतिप्राप्तम्