'पञ्चतन्त्रम्' इत्यस्य कथाग्रन्थस्य नाम यः न श्रुतवान् तादृशाः प्रायः कोऽपि नास्ति । तादृशस्य् अतिप्रसिध्द्स्य पञ्चतन्त्रस्य रचयिता विष्णुशर्मा | महिलारोप्यस्य राज्ञः अमरशक्तेः त्रीन् पुत्रान् षड् भिः मासैः राजनीतिनिपुणान् कर्तुं विष्णुशर्मा पञ्चतन्त्रग्रन्थं रचितवान् इति श्रूयते | विष्णुशर्मा तृतीये शतके ततः पूर्वं वा आसीत् इति पण्डिताः अभिप्रयन्ति | विष्णुशर्मा काश्मीरदेशीयः |

पञ्चतन्त्रस्य पारसिकानुवादस्य दलः

पञ्चतन्त्रम् सम्पाद्यताम्

मित्रभेद सम्पाद्यताम्

  • यत्र देशे थवा स्थाने भोगा भुक्ता: स्ववीर्यत:।

तस्मिन् विभवहीनो यो वसेत् स पुरुषाधम:।।

  • भो: श्रेष्ठिन! दीयतां मे सा निक्षेपतुला।
  • भो:! नास्ति सा, त्वदीया तुला मूषकैफर्भक्षित।
  • भो: श्रेष्ठिन! नास्ति दोषस्ते, यदि मूषकैफर्भक्षितेति। ईदृगेवांय संसार:।

न किञ्चिदत्र शाश्वतमसित। परमहं घां स्नानार्थं गमिष्यामि। तत त्वमात्मीयं शिशुमेनं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय।

  • वत्स! पितृव्योयं तव, स्नानार्थं यास्यति, तद् गम्यतामनेन

सार्धम्।

  • भो:! अभ्यागत! कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गत:?
  • मिथ्यावादिन्! कीं क्वचित श्येनो बालं हर्तुं शक्नोति। तत समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि।
  • भो: सत्यवादिन्! यथा श्येनो बालं न नयति, तथा मूषका अपि लौहघटितां तुलां न भक्षयनित। तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्।
  • भो:! अब्रह्राण्यम्! अब्रह्राण्यम्! मम शिशुरनेन चौरेणापहृत:।
  • किं करोमि? पश्यतो मे नदीतटाच्छ्येनेन अपहृत: शिशु:।
  • भो:! न सत्यमभिहितं भवता-किं श्येन: शिशुं हर्तुं समर्थो भवति?
  • भो: भो:! श्रूयतां मदवच:-

तुलां लौहसहस्त्रस्य यत्र खादन्ति मूषका:। राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशय:।।

बाह्यसंबन्धनानि सम्पाद्यताम्

विकिपीडियायाम् एतत्सम्बद्धः लेखः :


"https://sa.wikiquote.org/w/index.php?title=विष्णुशर्मा&oldid=3311" इत्यस्माद् प्रतिप्राप्तम्