विस्मृतभेदा: सन्तो...


विस्मृतभेदा: सन्तो

निर्मलभावापन्ना:
एकीभावं हृदयारूढं सततं कुर्वन्तुऽऽ
भो भो:, सततं कुर्वन्तुऽ ॥ ॥ विस्मृत... ॥


पूर्वज-मुनिजन-कविजन-वाञ्छा सर्वेषामैक्यं
सुखिनस्सर्वे सन्त्विति गानं तेषां बहुहृद्यम् ।
भाषा-धन-मत-जाति-विभेद: हृदये मा भवतु
दु:खित-दीन-जनानुन्नेतुं हस्ता: प्रसरन्तुऽऽ
भो भो:, हस्ता: प्रसरन्तुऽ ॥ ॥ विस्मृत... ॥१॥


गङ्गा-तुङ्गा-कावेरी-जलमस्माकं मत्वा
कृतसङ्कल्पा: कार्यं कर्तुम् आलस्यं हित्वा ।
सुवर्णपुष्पां पृथिवीमेतां क्रष्टुम् आयान्तु
प्रवहतु कामं स्वेदस्रोत: धैर्यं मा जहतुऽऽ
भो भो:, धैर्यं मा जहतुऽ ॥ ॥ विस्मृत... ॥२॥


घर्षण-लुण्ठन-वञ्चन-हननं प्रलयं संयातु
स्नेहस्रोत: प्रवहतु भ्रातुर्भावो हृदि लसतु ।
अनिल: सलिलम् अनल: सर्वं सर्वेषामेकम्
प्रवहति रक्तमभक्तं मातु: भेदो मा भवतुऽऽ

भो भो:, भेदो मा भवतुऽ ॥ ॥ विस्मृत... ॥३॥
- जि. महाबलेश्वरभट्ट:


"https://sa.wikiquote.org/w/index.php?title=विस्मृतभेदा:_सन्तो...&oldid=15195" इत्यस्माद् प्रतिप्राप्तम्