पिपीलिका यत् फलं प्राप्तुं न शक्नोति तत् कश्चन विहङ्गमः अनायासेन प्राप्तुं शक्नोति । एवं यं मोक्षम् अधमाधिकारी प्राप्तुं न शक्नोति तं कश्चन उत्तमाधिकारी मध्यमाधिकारी वा शीघ्रमेव प्राप्तुं शक्नोति यतः तादृशानां जन्मान्तरसंस्कारबलेन मनः शुद्धं भवति पूर्णप्रज्ञां च अधिगन्तुं शाक्नोति । अयम अस्य भावः । (सा. ५१७)

"https://sa.wikiquote.org/w/index.php?title=विहङ्गमन्यायः&oldid=11111" इत्यस्माद् प्रतिप्राप्तम्