सुभाषितम्

विहाय पौरुषं यो हि दैवमेवावलम्बते ।
प्रासादसिंहवत्तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥




तात्पर्यम्

यः पौरुषं विस्मृत्य दैवमेव अवलम्बेत तेषाम् उपरि, प्रासादस्य पुरतः विद्यमानस्य आलङ्कारिकसिंहस्य उपरि काकाः यथा उपविशन्ति तथा क्षुद्राः अधिकारं चालयेयुः ।

"https://sa.wikiquote.org/w/index.php?title=विहाय_पौरुषं_यो_हि...&oldid=15006" इत्यस्माद् प्रतिप्राप्तम्