वीचिः नाम तरङ्ग एव “ भङ्गः तरङग उर्मिर्वा स्त्रियां वीचिः” इत्यमरकोशे वीचिशब्दः तरड् गपर्यायत्वेन दर्शितः । तथापि तयोः कश्चन भेदः अस्ति । तरङ्गः वीचेः अपेक्षया लघुः भवति । तरङ्गानाम एव क्षोभतः वीचिः उत्पद्यते । एवं काचन शृङ्खला निर्मीयते । एवं शब्दस्य अपि उत्पत्तिः एकस्मात् शब्दात् शब्दान्तरम् इति क्रमेण भवति इति भावः । वीचितरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता ॥ (सा. २२८)

"https://sa.wikiquote.org/w/index.php?title=वीचितरङ्गन्यायः&oldid=11113" इत्यस्माद् प्रतिप्राप्तम्