कदाचित् एकः ब्राह्मणः वसति स्म । सः अन्धः, दरिद्रः अविवाहीतः च आसीत् । सः कठोरं तपः कृत्वा परमेश्वरं प्रसन्नं कृतवान् । प्रसन्नः परमेश्वरः “अभीष्टं वरं वृणीष्व” इति उक्तवान् । तदा सः “राजसिंहासनम् अधिरुढान् मम पुत्रपौत्रान् द्र्ष्टुम् इच्छामि” इति एकं वरं प्रार्थितवान् । तस्य चातुर्येन प्रसन्नः परमेश्वरः तस्मै दृष्टि – ऐश्वर्यं सुन्दरपत्नीं च दत्तवान् इति ॥ (सा. ३)

"https://sa.wikiquote.org/w/index.php?title=वृक्षप्रकम्पनन्यायः&oldid=11119" इत्यस्माद् प्रतिप्राप्तम्