वृक्षाग्रवासी न च पक्षिजातिः...

वृक्षाग्रवासी न च पक्षिजातिः
तृणं च शय्या न च राजयोगी ।
आपीतवर्णो न च हेमधातुः
अतश्च ताम्रः सुरसः क एषः ?

वृक्षस्य उपरि भवति, किन्तु पक्षी न । तृणस्य उपरि शेते, किन्तु योगी न ।
पीतवर्णीयः भवति, किन्तु सुवर्णं न । अतः सुगन्धयुक्तः ताम्रः । किम् एतत् ?
'अतः' इत्येतस्य अर्थद्वयम् - 'तस्मात्' 'तकाररहितम्' इति च । 'ताम्रः'
इत्यत्र तकारः निष्कासनीयः ।

उत्तरम्

आम्रः