वृक्षाग्रवासी न च पक्षिराजः...

वृक्षाग्रवासी न च पक्षिराजः
त्रिणेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी
जलं च बिभ्रत् न घटो न मेघः ॥

वृक्षस्य अग्रभागे वसामि, किन्तु पक्षिजातीयः नास्मि । मम नेत्रत्रयं विद्यते, किन्तु अहं शूलपाणिः नास्मि ।
चर्मवस्त्रं धृतवान् अस्मि, किन्तु अहं सिद्धयोगी नास्मि । अहं जलं धरामि, किन्तु नाहं घटः न वा मेघः ।

उत्तरम्

नालिकेरम् अथवा नारिकेलम्