चौर्यार्थं गतः चोरः वृश्चिकेन दष्टः चेत् किं भवति ? सः उच्चैः आक्रोशति चेत् जनाः धावित्वा आगत्य तं ताडयन्ति । परन्तु वेदनाकारणेन तूष्णीं भवितुम् अपि न शक्यते । एवं कस्यचित् कर्मणः फलभोगसमये स्वकृतस्य अपराधस्य मुक्ता अभिव्यक्तिः तूष्णींभावः वा न शक्यते इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=वृश्चिकचोरन्यायः&oldid=11123" इत्यस्माद् प्रतिप्राप्तम्