विदूषकः स्वभावेन चञ्चलः हास्यप्रियः च भवति । सः नृत्यति अभिनयति चेत् ततः सर्वेषाम् आनन्दः भवति । यदि सः वृश्चिकेन दष्टः सन् नृत्यति चेदपि जनाः तत् हासास्पदम् एव मन्यन्ते । सः विदूषकः वृश्चिकदशनेन पीडित इति न मन्यन्ते ।

"https://sa.wikiquote.org/w/index.php?title=वृश्चिकविदूषकन्यायः&oldid=11127" इत्यस्माद् प्रतिप्राप्तम्