युक्तवेणी मुक्तवेणी इति पवित्रनद्याः द्वौ प्रकारौ । प्रयोगक्षेत्रे संङ्गमात् पूर्वं गङ्गा यमुना च स्वतन्त्ररुपेणा वहतः । तत्र ते युक्तवेणीरुपेण वर्तेते । तयोः प्रतिबिम्बिते आकाशे कोऽपि भेदः न भवति । एवं ब्रह्मा विष्णुः महेश्वरः इति मूर्तित्रये कोऽपि भेदः नास्तीति भावः ।

"https://sa.wikiquote.org/w/index.php?title=वेण्याकाशन्यायः&oldid=11129" इत्यस्माद् प्रतिप्राप्तम्