नदीनां यदा महापूरः भवति तदा महान्तः वृक्षाः अपि उन्मूलिताः भूत्वा जलप्रवाहे प्लवन्ते । परन्तु ये वेतसाः भवन्ति ते तावत् नम्राः भूत्वा तिष्ठन्ति । जलप्रवाहे गते पुनश्च सरलाः भवन्ति । एवं स्वाभिमानिनः जनाः कष्टकाले नम्राः भूत्वा जीवन्ति । ये तावत् अहङ्कारेण् तिष्ठान्ति ते कष्टैः उन्मूलिताः भवन्ति इति भावः (सा. १२७)

"https://sa.wikiquote.org/w/index.php?title=वेतसन्यासन्यायः&oldid=11131" इत्यस्माद् प्रतिप्राप्तम्