अनागोहत्या वै भीमा ॥

(वेदसूक्तिः/अथर्ववेदः/अनागोहत्या वै भीमा ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

अनागोहत्या वै भीमा ॥ (अथर्ववेदः १०-१-२९) सम्पाद्यताम्

निष्पापप्राणिनां हत्या भयावहा ।

विविधैः कारणैः मानवाः प्राणिनां वधं कुर्वन्ति । किन्तु न किमपि कारणम् अङ्गीकाराय भवति ।
नियन्त्रणाय - प्राणिनां सङ्ख्या अत्यधिका जाता इत्यादिकं चिन्तनीयमस्ति । निसर्गनियमानुसारं प्राणिनां सङ्ख्या नियन्त्रिता भविष्यति । अस्माभिः प्रवेष्टव्यं नास्ति । प्राणिनां निवासस्थानस्य अतिक्रमप्रवेशः यदा मानवैः क्रियते तदा ते अस्माकं वासस्थानं प्रविशन्ति । दोषः कस्य ? तेषां सीमारेखा अस्माभिः आद्रियेत चेत् समस्या न उत्पद्यते ।
प्रमोदाय - अन्यस्य प्राणिनः पीडा यदि प्रमोदाय भवेत् तर्हि केनचित् मानसरोगेण ग्रस्तः इत्यर्थः । स्वस्थं मनः दयानुकम्पादिभिः गुणैः युक्तं भवति ।
पूजायै - देवस्य अनुग्रहप्राप्त्यै तेनैव सृष्टस्य प्राणिनः बलिदानं मौढ्यातिरेकमात्रम् । मातुः प्रीतेः सम्पादनाय अन्यस्य पुत्रस्य मारणं किं भवेत् सन्तोषाय ?!!
आहाराय - अस्माभिः सेव्यमानः आहारः शरीरस्य मनसश्च जीवदायकं पोषणदायकं स्यात् । अस्माकम् उदरं मृतप्राणिनां स्थापनाय श्मशानं नैव ।
प्राणिहत्या आत्मोन्नत्यै मारकाय भवति ।
"https://sa.wikiquote.org/w/index.php?title=अनागोहत्या_वै_भीमा_॥&oldid=145" इत्यस्माद् प्रतिप्राप्तम्