अहमस्मि सहमानः ॥
(वेदसूक्तिः/अथर्ववेदः/अहमस्मि सहमानः ॥ इत्यस्मात् पुनर्निर्दिष्टम्)
अहमस्मि सहमानः ॥ (अथर्ववेदः १२-१-५४)
सम्पाद्यताम्अहं सहनाशीलः अस्मि ।
- धनात्मकचिन्तनमेव जीवने बहूनां साधनानां मूलहेतुः भवति । मनः इत्येतत् चञ्चलं दुर्बलञ्च । इदं लोभ-काम-क्रोध-मात्सर्यादिभिः बद्धं भवति अचिरादेव । एवं बद्धेन मनसा किं समीचीनं किं न इत्यादीनां विवेचनासामर्थ्यं नश्यति । महत्याः विपत्तेः प्राप्त्यनन्तरमपि इदं ज्ञायेत कदाचित् न स्यादेव । किन्तु धनात्मकचिन्तनमेव यदि क्रियेत तर्हि मनः दृढं समर्थञ्च भविष्यति । लोभ-काम-क्रोध-मात्सर्यादीनां ताडनं समर्थतया सोढुं शक्नोति । सहनशीलं भविष्यति । विवेचनारहितं न भविष्यति । अग्रिमविपत्तीः आदौ एव निवारयितुं शक्यते ।