न स्तेयमद्मि ॥ (अथर्व १४-१-५७) सम्पाद्यताम्

चौर्येण भोगं न अनुभवामि ।

अयं मन्त्रः वैदिकविवाहसंस्कारे वधूम् उद्दिश्य वरेण प्रतिज्ञाकरणावसरे उच्यते । अर्थम् अवगत्य वरः यदि इमं मन्त्रं वदेत् तर्हि अग्रिमे दाम्पत्यजीवने व्यभिचारादीनि कुकृत्यानि न सम्भवन्ति । व्यक्तिदृष्ट्या समाजदृष्ट्या च स्वास्थ्यकरम् एकपत्नीव्रतं पालयितुं सत्प्रेरणां यच्छति अयं मन्त्रः । एतेन पतिपत्न्योः सम्बन्धः दृढः भवति । एतस्यां पृष्ठभूमिकायां जायमाना सन्ततिः श्रेष्ठा भवति । स्वस्थकुटुम्बाः एव स्वस्थसमाजस्य आधारभूताः ।
"https://sa.wikiquote.org/w/index.php?title=न_स्तेयमद्मि_॥&oldid=1569" इत्यस्माद् प्रतिप्राप्तम्