परोऽपेहि मनस्पाप ॥

(वेदसूक्तिः/अथर्ववेदः/परोऽपेहि मनस्पाप ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

परोऽपेहि मनस्पाप ॥ (अथर्ववेदः ६-४५-१) सम्पाद्यताम्

हे पाप ! मम मनस्तः दूरं गम्यताम् ।

पापमुद्दिश्य उक्तमिति भाति चेदपि इदम् अस्माकं मनः उद्दिश्य एव उक्तं वर्तते ! पापस्य उद्भवः अत्रैव भवति । तस्य उद्भवः एव यथा न स्यात् तथा जागरूकता वोढव्या । किन्तु संस्कारस्य प्रभावात् यदि उद्भवेत् अङ्कुरावस्थायामेव तत् मर्दनीयम् । अन्यथा तच्च पापं समग्रे मनसि प्रसृत्य मनः दुर्बलं करोति । ततः वचनरूपं प्राप्नोति । वचनरूपस्य पापस्य क्रियारूपप्राप्तेः कति क्षणाः अपेक्षिताः ?! पापक्रियाभिः सर्वनाशः भविष्यति । किं नाम पापम् ? यत् आत्मानं पातयेत्, यत् आत्मशक्तिं नाशयेत् तदेव पापम् ! उदाहरणाय - असत्यकथनेन आतङ्कः, सत्यकथनेन शान्तिः ।
"https://sa.wikiquote.org/w/index.php?title=परोऽपेहि_मनस्पाप_॥&oldid=1657" इत्यस्माद् प्रतिप्राप्तम्