मर्यादे पुत्रमाधेहि ॥

(वेदसूक्तिः/अथर्ववेदः/मर्यादे पुत्रमाधेहि ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

मर्यादे पुत्रमाधेहि ॥ (अथर्ववेदः ६-८१-२) सम्पाद्यताम्

सन्ततिप्राप्तौ मितिः स्यात् ।

'कुटुम्बनियन्त्रणम्' इत्येतत् न तावत् आधुनिकं चिन्तनम् । वेदेषु एव निर्दिष्टं चिन्तनम् इदम् । अन्ये पशवः इव सन्ततिप्राप्तिः मानवाय न शोभते । मानवाः स्वीयं सन्ततिं योग्यरीत्या पालयेत्, पोषयेत् च । उत्तमं शिक्षणं प्रदाय राष्ट्रस्य उत्तमप्रजारूपेण निर्माणं मानवस्य उत्तरदायित्वं वर्तते । अधिका सन्ततिः यदि स्यात् तर्हि अस्य कर्तव्यस्य पालनं कष्टसाध्यम् । मितिः अन्तरञ्च भवेदेव । अस्य नियमस्य विरुद्धाचरणं मानवं शक्तिहीनं करोति । नियमानुगुणं ये गृहस्थाः जीवन्ति ते वस्तुतः भवन्ति ब्रह्मचारिणः ।
"https://sa.wikiquote.org/w/index.php?title=मर्यादे_पुत्रमाधेहि_॥&oldid=2014" इत्यस्माद् प्रतिप्राप्तम्