अनृतात् सत्यमुपैमि ॥

(वेदसूक्तिः/अनृतात् सत्यमुपैमि ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

अनृतात् सत्यमुपैमि ॥ (यजुर्वेदः १-५) सम्पाद्यताम्

असत्यात् सत्यं प्रति चलामि ।

'असतो मा सद्गमय'- असत्यात् सत्यं प्रति मां नय इत्येतस्याः प्रार्थनायाः मूलमस्ति अयं मन्त्रभागः । किन्तु अयं मन्त्रभागः तीक्ष्णतरः विद्यते । आदिमे मन्त्रे 'नय' इति उत्तरदायित्वम् अन्यस्मिन् आरोपितम् । किन्तु द्वितीये मन्त्रे अहमेव चलामि इत्येषः दृढसङ्कल्पः विद्यते । साधनं कर्तुम् दृढः आग्रहः स्यात् । प्रार्थना अपि आग्रहरूपं सङ्कल्परूपं प्राप्नुयात् । आग्रहरहिता सङ्कल्परहिता प्रार्थना भवति निष्प्रयोजिका । इदं किञ्चन व्रतम् । निरन्तरं पालयितव्यम् । अद्य आरम्भः, मध्ये तदा तदा विरामः, एकस्मिन् दिने उद्यापनम् - इत्येतत् व्रतमिति न कथ्यते !! अन्तिमश्वासपर्यन्तम् आचरितव्यम् । वयम् अत्र आगन्तुकाः केवलम् । किन्तु सत्यं नित्यम् । आश्रितेभ्यः आत्मबलं प्रयच्छति तत् सदा । सत्यस्य रक्षणाय अशाश्वतस्य अस्य शरीरस्य बलिः यदि अपेक्ष्यते तर्हि अवश्यं कर्तव्यः । जगति महात्मानः सर्वे अपि सत्य-अहिंसादिभ्यः बलिदानम् अकुर्वन्नेव !! केषाञ्चन जनानां विषये सत्यपालनम् इत्येतत् कुत्रचित् कदाचित् क्रियमाणः डम्भाचारः भविष्यति । सर्वेषु अपि सन्दर्भेषु सत्यपालनम् इत्येतत् उपरि निर्दिष्टस्य मन्त्रस्य तात्पर्यम् ।
"https://sa.wikiquote.org/w/index.php?title=अनृतात्_सत्यमुपैमि_॥&oldid=183" इत्यस्माद् प्रतिप्राप्तम्