अवहितं देवा उन्नयथा पुनः ॥

(वेदसूक्तिः/अवहितं देवा उन्नयथा पुनः ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

अवहितं देवा उन्नयथा पुनः ॥ (ऋग्वेदः १०-१३७-१) सम्पाद्यताम्

हे ज्ञानिनः ! पतितः जनः उत्थाप्यताम् ।

जीवनमार्गे पतितारः भवन्ति एव । केचन अज्ञानेन, केचन जानन्तः एव, केचन दुरभ्यासेन, केचन दुराचारेण च पतन्ति । केचन निःशक्त्या पतन्ति चेत् कांश्चन शक्तिशालिनः पातयन्ति । अधोगतिं प्रापयन्ति । पतनं यावत् विद्यमानः अहङ्कारः मदः पतनोत्तरं निर्गच्छन्ति । केषुचित् तदापि न निर्गच्छति यतः तैः इतोऽपि पतनानुभवः प्राप्तव्यः अस्ति । पतिताः उत्थाने भवन्ति समुत्सुकाः । अत्र ज्ञानिनाम् आवश्यकता वर्तते । 'पतिताः उत्थाप्यन्ताम्' इति । हस्ताधारेण उत्थापनम्, उत्थातारः विद्यन्ते इति पुनः पुनः पतनमित्येषः न भवति ज्ञानिनां व्यवहारः । पतिताः उत्थिष्ठेयुः इति धिया ज्ञानिनः पतितान् स्वयम् उत्थानाय प्रेरयन्ति, मार्गदर्शनं कुर्वन्ति । एवम् उत्थितवतां पुनः पतनभयं न विद्यते । प्रत्युत ते अन्येषाम् उत्थापकाः ज्ञानिनः भविष्यन्ति ।