अकर्मा दस्युः ॥
(वेदसूक्तिः/ऋग्वेदः/अकर्मा दस्युः ॥ इत्यस्मात् पुनर्निर्दिष्टम्)
अकर्मा दस्युः ॥ (ऋग्वेदः १०-२२-८)
सम्पाद्यताम्यः कर्म न करोति सः नाशं प्राप्नोति ।
- आत्मा अस्ति चेतनस्वरूपा । इच्छा-द्वेष-सुख-दुःख-ज्ञान-प्रयत्नादिभिः युक्तः अस्ति । अतः एव सः भवति सदा क्रियाशीलः । आत्मना क्रियाशीलेन भवितुम् इदं शरीरं किञ्चन माध्यमं यन्त्रम् अस्ति । इदं शरीरं पञ्चभूतैः निर्मितं किञ्चन जडवस्तु । शरीरात् आत्मनः त्यागस्य अनन्तरम् इदं शरीरं क्रियारहितः सत् विनश्यति । क्रियाशून्यता नाम विनाशः एव । आत्मनः प्रयत्नानां लक्ष्यं भवति स्वस्य सामर्थ्यस्य बलस्य च वर्धनम् । शक्तः आत्मा एव आनन्दानुभवने समर्थः । अयम् आनन्दः एव अस्माभिः सर्वैः अन्विष्यमाणः विद्यते । अतः प्रयत्नानां माध्यमम् इदं मानवशरीरं यद्यपि मूलतः जडं तथापि तस्मिन् आत्मनः अस्तित्वकारणतः निष्क्रियं भवितुम् आर्हति । तथा स्थितिः नाम आलस्यम् । आलस्यं नाशाय परिणमति । अस्य अमूल्यस्य मानवजीवनस्य नाशहेतुः यः भवेत् सः एव 'दस्युः' इति कथ्यते । अकर्म-विकर्मभ्यां सत्कर्म प्रति गच्छेम ।