अनृणाः स्याम ॥

(वेदसूक्तिः/ऋग्वेदः/अनृणाः स्याम ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

अनृणाः स्याम ॥ (ऋग्वेदः ६-११७-३) सम्पाद्यताम्

ऋणरहिताः भवेम ।

जन्मसमनन्तरमेव ऋणम् अस्मदुपरि आरोपितं भवति ।
देवऋणम् - अस्मन्निमित्तं शरीररचनाव्यवस्थां, जीवनाय भूमि-वायु-जल-शाख-आकाशादीनां व्यवस्थाञ्च परिकल्पितवतः तस्य भगवतः ऋणम् ।
पितृऋणम् - अस्माकं कृते शरीरं विरचय्य गर्भे सम्पाल्य, पोषयित्वा, प्रसूय, संरक्ष्य, सकाले भोजनवस्त्रादीनि परिकल्प्य मार्गदर्शनं कृतवतोः पित्रोः ऋणम् ।
आचार्यऋणम् - ज्ञानं विवेकञ्च दत्तवतां गुरुजनानाम् ऋणम् ।
एतेभ्यः ऋणेभ्यः कथं मुक्ताः स्याम इत्येतस्मिन् विषये तीव्रः प्रयत्नः स्यात् । इदं कर्तव्यं विस्मृत्य अनर्थकार्याणि कुर्वन्तः नूतनस्य ऋणस्य वर्धनं, परिश्रमेण विना सम्पत्तेः स्वायत्तीकरणम्, आधारभूतानां पञ्चभूतानां मलिनीकरणम् इत्यादिषु अकार्येषु मग्नैः इयं सूक्तिः कथं वा अवगम्येत ? भगवता सृष्टम् इदं जगत् शुद्धं संरक्ष्य तदीयमार्गदर्शनानुसारं यदि शुद्धं जीवेम तर्हि देवऋणात् मुक्तिः प्राप्येत । वार्धक्ये पित्रोः सेवा प्रीत्या यदि क्रियेत तर्हि पितृऋणात् मुक्ताः स्याम । ज्ञानं संरक्ष्य अग्रिमायै परम्परायै यदि प्रापयेम तर्हि आचार्यऋणात् मुक्तिः साध्या । ऋणमुक्तमात्रस्य एव जननमरणचक्रात् मुक्तिः !!
"https://sa.wikiquote.org/w/index.php?title=अनृणाः_स्याम_॥&oldid=177" इत्यस्माद् प्रतिप्राप्तम्