आ नो भद्राः क्रतवो यन्तु विश्वतः ॥

आ नो भद्राः क्रतवो यन्तु विश्वतः ॥ (ऋग्वेदः १-८९-१) सम्पाद्यताम्

कल्याणकराः विचाराः सर्वतः आगम्यन्ताम् ।

सर्वः अपि स्वस्य परिसरात् बहून् विचारान् ज्ञातवन्तः भवन्ति । तस्मिन् परिसरे विद्यमानानां ज्येष्ठानां वचन-व्यवहारादीनि अस्माभिः अभ्यस्तानि भवन्ति । सम्प्रदाय-मत-मठ-जात्यादीनां बन्धनैः युक्ताः भवामः । गुरूणाम् आचार्याणां सङ्घसंस्थादीनां सिद्धान्तैः मनसा बद्धाः भवामः । 'अस्माकं विचारधारा एव समीचीना' तदतिरिच्य विद्यमानं सर्वम् अनृतमिति भवति अस्माकं मनोभावः । एषः मनोभावः अपायकरः स्वस्य जगतः कृते अपि । एतैः कारणैः इतिहासे कियान् रक्तपातः जातः ! अद्यत्वे अपि प्रचलति । एतैः अनुकरणेभ्यः, बन्धनेभ्यः, मनोभावेभ्यः मुक्ताः स्याम । 'मम विश्वासः एव सत्यभूतः' इति न अपि तु 'सत्यभूते एव अहं विश्वसिमि' इत्येवं यदि चिन्तयेम तदा मनः मुक्तं भवति । सत्योपेताः विचाराः कुतश्चित् वा आगच्छन्तु नाम, स्वीकुर्याम मुक्तमनसा ।