ऋतस्य पन्थां न तरन्ति दुष तः ॥

ऋतस्य पन्थां न तरन्ति दुष तः ॥ (ऋग्वेदः ९-७३-६) सम्पाद्यताम्

दुष्कर्मी न्यायमार्गम् अतिक्रान्तुं न शक्नोति ।

न्यायमार्गस्य अन्त्यं भवति शान्ति-समाधानानन्दादिषु । अयं मार्गः विस्तृतः राजमार्गः वर्तते । अस्मिन् मार्गे चलनाय सञ्चारनियमाः पालनीयाः । अस्मिन्नेव मार्गे चलतः अन्यस्य पथिकस्य घट्टनं न करणीयम् । तस्य अवरोधः न कर्तव्यः । प्रत्युत अन्येषां प्रयाणं सुखकरं यथा स्यात् तथा साहाय्यं करणीयम् । अस्मिन् मार्गे गमनावसरे सत्यमेव कथनीयम् । जीविकासम्पादनमपि ऋजुमार्गेणैव स्यात् । अनुकम्प-सत्य-निष्कपटादयः सत्कर्म इति कथ्यते । एतेषां पालनं यः न करोति सः एव दुष्कर्मी । सञ्चारनियमान् अपालयन् दुष्कर्मी अस्मिन् मार्गे गन्तुं नार्हति । उपमार्गाः पादमार्गाः च बहवः विद्यन्ते । किन्तु ते च मार्गाः शान्ति-समाधानानन्दान् प्रति न नेष्यन्ति । तेन मार्गेण गम्यते चेत् मार्गभ्रष्टाः सन्तः क्लेशव्यूहे एव परिभ्रमणीयं भवेत् । न्यायं मार्गं दुष्टः क्रान्तुं नार्हति !