ऋषिः स यो मनुर्हितः ॥
(वेदसूक्तिः/ऋग्वेदः/ऋषिः स यो मनुर्हितः ॥ इत्यस्मात् पुनर्निर्दिष्टम्)
ऋषिः स यो मनुर्हितः ॥ (ऋग्वेदः ४-५-२)
सम्पाद्यताम्मनुकुलस्य हिताकांक्षी एव ऋषिः ।
- जटाश्मश्रुधारी, धृतदण्डकमण्डलुः एव ऋषिः इति सामान्या कल्पना । न तथा । मनुकुलस्य सकलस्य जीवराशेः हिताकांक्षी एव ऋषिः । इयम् आकांक्षा मानसिकीमात्रं न भवेत् अपि तु क्रियारूपं प्राप्नुयात् । ऋषिर्दर्शनात् - सत्यस्य दर्शनात् ऋषिः भवति । सत्यदर्शनं नाम किम् ? आत्मनः बलवर्धनाय एव विद्यते इदं जीवनं न तु इन्द्रियभोगमात्राय । न्यूनाधिक्यं विना इमम् आनन्दं दीर्घकालम् अनुभोक्तुम् इदम् आत्मबलम् अत्यवश्यम् । सर्वेषां जीविनां हिताकांक्षा, तस्य साधनमेव आत्मबलस्य प्राप्तै विद्यमानः एकैकः मार्गः । सर्वैः अपि ऋषिभिः भवितव्यमेव । यावदधिकं साधयेम तावदधिकं बलं सञ्चितं स्यात् ।