केवलाघो भवति केवलादी ॥
(वेदसूक्तिः/ऋग्वेदः/केवलाघो भवति केवलादी ॥ इत्यस्मात् पुनर्निर्दिष्टम्)
केवलाघो भवति केवलादी ॥ (ऋग्वेदः १०-११७-६)
सम्पाद्यताम्एकाकी यः खादति सः पापी एव भवति ।
खादनं न दोषाय । जीविनः सर्वे, जिजीविषवः सर्वे अपि अवश्यं खादेयुः एव । किन्तु,
- किमर्थं खादनीयम् ? - शक्तेः सम्पादनाय ।
- कदा खादनीयम् ? - बुभुक्षा यदा भवेत् तदा ।
- किं खादनीयम् ? - ज्ञानस्य शक्तेः दायकः सात्त्विकः आहारः खादनीयः ।
- कियत् खादनीयम् ? - उदरस्य अर्धभागः आहारेण, पादभागः जलेन, पादभागः वायुना च पूरणीयम् ।
- कथं खादनीयम् ? - समीचीनतया चर्वणं कृत्वा खादनीयम् ।
एतान् विषयान् अवगत्य खादनीयम् । खादनात् पूर्वं दातारं भगवन्तं, कृषकं च कृतज्ञतापूर्वकं संस्मृत्य अन्यैः सह संविभज्य खादनीयम् । इदं विस्मृत्य एकाकी एव यदि खादेत् तर्हि रोगादिभिः पीडितः भवेत् ।