चोदस्व महते धनाय ॥

(वेदसूक्तिः/ऋग्वेदः/चोदस्व महते धनाय ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

चोदस्व महते धनाय ॥ (ऋग्वेदः १-१०४-७) सम्पाद्यताम्

पूजनीयायै सम्पत्त्यै प्रेर्यताम् ।

वेदाः वैराग्यमात्रं बोधयन्ति इत्येतत् मूढकल्पना, आरोपमात्रम् एव । सम्पत्तेः सम्पादनविषये कोपि विरोधः नास्ति । किन्तु नैजा सम्पत्तिः का ? तस्याः सम्पादनमार्गः कः भवेत् ? इति वेदः ज्ञापयति । सम्पत्तिः आन्तरिकमौल्यैः युक्ता स्यात् । वाणिज्यस्य न्यूनाधिक्यम् अस्य मौल्यस्य परिवर्तनं न कुर्यात् । सम्पत्तिं प्राप्तवान् जनः ततः पोषणं प्राप्नुयात् । सम्पादनमार्गः ऋजुः पारदर्शकश्च भवेत् । एतान् नियमान् उल्लङ्घ्य सम्पत्तेः सम्पादनं यदि क्रियेत तर्हि तस्य लाभं प्राप्नुवन्ति - आरक्षकाः, चोराः, वैद्याः, न्यायवादिनश्च ! भ्रष्टाचारेण प्राप्तस्य उत्कोचस्य गौरवं न विद्यते । सम्पत्तेः स्वामिनः सन्तः वयमपि महिमानं सम्पादयेम ।
"https://sa.wikiquote.org/w/index.php?title=चोदस्व_महते_धनाय_॥&oldid=1137" इत्यस्माद् प्रतिप्राप्तम्