जानतां सं गमेमहि ॥

(वेदसूक्तिः/ऋग्वेदः/जानतां सं गमेमहि ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

जानतां सं गमेमहि ॥ (ऋग्वेदः ५-५१-१५) सम्पाद्यताम्

ज्ञानिनां सहवासे स्याम ।

'सज्जनानां सङ्गः मधुपानमिव' इति श्रुतमेव । सर्वेषां जीविनां हितमेव चिन्तयन्ति सज्जनाः । तेषां सहवासे वयं सुरक्षिताः भवामः । सज्जनाः स्वहितेन सह अन्येषां हितमपि अभिलषन्ति इत्यतः तेषां सन्तोषः वर्धते । तेषां सहवासे अस्माभिः अपि इदम् अनुभूयते । अधिकसन्तोषस्य तृप्तेः च प्राप्त्यर्थं स्वार्थातीताः स्याम इत्येतं पाठम् अधिगच्छामः । सर्वेषां हिते अस्माकं हितमपि अन्तर्निहितमस्ति इत्येतत् सरलं सुन्दरञ्च सत्यम् अस्माभिः अवगम्यते । तदा अस्माकं जीवने किञ्चन परिवर्तनं जायते । अस्माकं प्रगतौ अन्येषां प्रगतिः, अन्येषां प्रगतौ अस्माकं प्रगतिश्च संयुक्तं भवति । तदा वस्तुतः उत्तमस्य मानवसमाजस्य निर्माणं भविष्यति ।
"https://sa.wikiquote.org/w/index.php?title=जानतां_सं_गमेमहि_॥&oldid=1190" इत्यस्माद् प्रतिप्राप्तम्