धेहि तनूषु नः ॥

(वेदसूक्तिः/ऋग्वेदः/धेहि तनूषु नः ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

धेहि तनूषु नः ॥ (ऋग्वेदः ३-५३-१८) सम्पाद्यताम्

अस्माकं शरीरेषु बलं धारयतु ।

शरीरं नश्वरम् इत्येतत् तु सत्यमेव । किन्तु तस्मिन् निर्लक्ष्यं न युक्तम् । शरीरमेव सर्वम् इति भावयद्भिः तस्य पोषणे एव मग्नाः सन्तः तस्य सौन्दर्यवर्धने एव मनः इत्येतदपि न युक्तम् । एतयोः मध्ये विद्यते अस्य मन्त्रस्य तात्पर्यम् !!
इदं शरीरं भिन्नम् । अस्मिन् आश्रयभूतः जीवात्मा भिन्नः । पञ्चभूतेन निर्मितम् इदं शरीरं कस्मिंश्चित् दिने पञ्चभूते एव लीनं भविष्यति इत्यतः इदं न भवेत् अस्माकं परमं लक्ष्यम् । शाश्वतरूपः जीवात्मा एव अस्माकं परमं लक्ष्यम् । तस्य बलस्य, शक्तेः, पावित्र्यस्य च वर्धनमेव जीवनस्य उद्देशः, अर्थश्च । तन्निमित्तं सद्विचाराः ज्ञातव्याः, सदाचाराः पालनीयाश्च ।
विषयाणाम् अवगमनाय, जीवने आचरणे अन्वयनाय च इन्द्रियैः युक्तम् इदं शरीरम् अवश्यमेव ! इदं शरीरं यावत् बलयुतं, यावत् दीर्घायुयुतं स्यात् तावन् लाभः भवति आत्मनः । अतः एव इयं प्रार्थना । 'देहि' इति चेत् दीयताम् इत्येतावदेव भवति अर्थः । प्राप्तं रक्षितुं शक्येत कदाचित् न शक्येत अपि । किन्तु, 'धेहि' इति यदि कथयेम तर्हि तस्य सदुपयोगप्राप्त्यै या शक्तिः सामर्थ्यञ्च अपेक्षितं तदपि देहि इत्यर्थः !
"https://sa.wikiquote.org/w/index.php?title=धेहि_तनूषु_नः_॥&oldid=1494" इत्यस्माद् प्रतिप्राप्तम्