भद्रा इन्द्रस्य रातयः ॥

(वेदसूक्तिः/ऋग्वेदः/भद्रा इन्द्रस्य रातयः ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

भद्रा इन्द्रस्य रातयः ॥ ऋक् ८-६२-१ सम्पाद्यताम्

भगवतः उपायनानि सदा भवन्ति कल्याणकराणि

आकाशः, वायुः, जलम्, अग्निः, भूमिः - इत्येतैः सृष्टम् इदं जगत् भगवतः उपायनमेव । इदं सर्वं कल्याणकरमेव । इदं शरीरं, ज्ञानञ्च भगवतः उपायनमेव । इदमपि शुद्धम् । भगवता दत्तानि शुद्धानि उपायनानि वयम् अस्माकं कृतकजीवनपद्धत्या मलिनानि कृतवन्तः स्मः । वायुमालिन्यं, जलमालिन्यं, भूमालिन्यं, बुद्धिमालिन्यञ्च अस्माभिः एव सृष्टमस्ति । सकलजीवराशेः पोषणाय वर्धनाय च विद्यमाना सर्वा सम्पत्तिः अस्माभिः संरक्षणीया । वयमपि सुखेन जीवेम । अन्येषां सुखजीवनाय पूर्णमनसा सहकुर्याम ।