मनुर्भव ॥
(वेदसूक्तिः/ऋग्वेदः/मनुर्भव ॥ इत्यस्मात् पुनर्निर्दिष्टम्)
मनुर्भव ॥ (ऋग्वेदः १०-५३-६)
सम्पाद्यताम्चिन्तनशीलो भव
- चिन्तनशीलता एव मानवम् अन्येभ्यः प्राणिभ्यः पृथक्करोति । प्राणिनां ज्ञानावगमनानि च बुभुक्षा-पिपासादीनां निवारणाय, विश्रान्त्यर्थं सूक्तं वासस्थानस्य प्राप्तये, स्वस्य जीवस्य रक्षणाय, सन्तानोत्पादनाय मात्रम् अलं भवति । किन्तु मानवः प्रश्नं कुर्वन्, प्रयोगान् कुर्वन् स्वस्य, स्वस्मिन्, स्वं परितः तदन्तश्च विद्यमानायाः शक्तेः अवगमनसामर्थ्यवान् अस्ति । अस्य सामर्थ्यस्य उपयोगं करोति चेत् मानवः अन्यथा तस्य अन्येषां प्राणिनाञ्च कोऽपि भेदः न भवेत् ! अतः एव वेदाः आदिशन्ति - 'चिन्तनशीलो भव' इति । कस्यापि कार्यस्य करणात् पूर्वम् आमूलं परिशीलनीयम् । कस्य कार्यस्य कः परिणामः ? लाभः मम केवलम् उत समग्रस्य जगतः ? लाभः तात्कालिकः उत दीर्घकालिकः ? भौतिकः उत अध्यात्मिकः ? - इत्यादयः विषयाः चिन्तनीयाः ।