मा निन्दतः ॥
(वेदसूक्तिः/ऋग्वेदः/मा निन्दतः ॥ इत्यस्मात् पुनर्निर्दिष्टम्)
मा निन्दत ॥ (ऋग्वेदः ४-५-२)
सम्पाद्यताम्निन्दा न क्रियताम् ।
- दुष्टाः, द्रोहिणः, हिंसकाः च परितः तिष्ठन्तः निरन्तरं पीडयन्तः यदा भवन्ति तदा अयम् उपदेशः कियता प्रमाणेन युक्तः ? !
- अत्र किञ्चन प्रमुखम् अंशं न विस्मरेम । पीडां सम्मुखीकर्तुं सोढुं वा यदा न शक्नुमः तदा एव अस्माभिः पीडातः हिंसा अनुभूयते । अस्माकं दौर्बल्यं दुष्टानाम् अनुकूलाय भवति । अस्माकं शक्तिं सहनाञ्च अवर्धयन्तः तेषां निन्दनमात्रेण समस्या किं परिह्रियेत ? अपि च, कति वारं वयं तच्च निन्दनं तेषां पुरतः करणस्य धैर्यं प्रदर्शितवन्तः ? अधिकतया तेषां पृष्ठतः एव अस्माभिः निन्दनं कृतम् । एतैः निन्दनैः अस्माकं मनः बुद्धिश्च इतोऽपि दुर्बलं मलिनञ्च भवति, समस्यायाः परिहारस्तु निश्चयेन न भवति ।
- दोषान् सम्बद्धजनस्य पुरतः एव खण्डनस्य धैर्यं वहामः । दोषनिवारणस्य मार्गमपि दर्शयाम, साहाय्यमपि कुर्याम । उत्तमा प्रेरणा प्राप्यताम् इति प्रार्थयेम । फलप्राप्तिं यावत् सहनया सम्मुखीकुर्याम ।