आरे बाधस्व दुच्छुनाम् ॥ (ऋक् ९-६६-१९, साम - ६२७) सम्पाद्यताम्

दुष्टान् वेगान् दूरीकुरु

काम-क्रोध-लोभ-मोह-मद-मात्सर्यानि एव दुष्टाः वेगाः । एते सर्वान् अपि वेगेन आकर्षन्ति, आक्रामन्ति च । लघुः अवसरः कल्पितः चेदपि पूर्णतया अस्मान् आवृण्वन्ति । दूरतः एव ते निवारणीयाः । इदं कार्यं दृढेन मनसा कठिनश्रमेण क्रियेत चेदेव जयस्य प्राप्तिः । अस्य कार्यस्य समर्पकतया निर्वहणाय इच्छाशक्तिः बलवीर्यादयः दीयन्ताम् इति भवेत् अस्माकं प्रार्थना । मया एवमेव आचर्यते इति दृढः सङ्कल्पः स्यात् अस्माकम् । तथा अस्माभिः यदि न अनुष्ठीयेत तर्हि प्रार्थना भवेत् निरर्थिका ।