केवलाघो भवति केवलादी ॥

(वेदसूक्तिः/केवलाघो भवति केवलादी ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

केवलाघो भवति केवलादी ॥ (ऋग्वेदः १०-११७-६) सम्पाद्यताम्

एकाकी यः खादति सः पापी एव भवति ।

खादनं न दोषाय । जीविनः सर्वे, जिजीविषवः सर्वे अपि अवश्यं खादेयुः एव । किन्तु,

किमर्थं खादनीयम् ? - शक्तेः सम्पादनाय ।
कदा खादनीयम् ? - बुभुक्षा यदा भवेत् तदा ।
किं खादनीयम् ? - ज्ञानस्य शक्तेः दायकः सात्त्विकः आहारः खादनीयः ।
कियत् खादनीयम् ? - उदरस्य अर्धभागः आहारेण, पादभागः जलेन, पादभागः वायुना च पूरणीयम् ।
कथं खादनीयम् ? - समीचीनतया चर्वणं कृत्वा खादनीयम् ।

एतान् विषयान् अवगत्य खादनीयम् । खादनात् पूर्वं दातारं भगवन्तं, कृषकं च कृतज्ञतापूर्वकं संस्मृत्य अन्यैः सह संविभज्य खादनीयम् । इदं विस्मृत्य एकाकी एव यदि खादेत् तर्हि रोगादिभिः पीडितः भवेत् ।

"https://sa.wikiquote.org/w/index.php?title=केवलाघो_भवति_केवलादी_॥&oldid=6370" इत्यस्माद् प्रतिप्राप्तम्