ज्योतिर्वृणीत तमसो विजानन् ॥

(वेदसूक्तिः/ज्योतिर्वृणीत तमसो विजानन् ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

ज्योतिर्वृणीत तमसो विजानन् ॥ (ऋग्वेदः ३-३९-७) सम्पाद्यताम्

अन्धकारात् अपसार्य ज्ञानज्योतिः चीयताम् ।

अज्ञानमेव अन्धकारः । ज्ञानमेव ज्योतिः, प्रकाशः । ज्ञानेनैव मानवः अन्येभ्यः जीविभ्यः भिन्नः वर्तते । अन्येषां पशूनां ज्ञानं स्वाभाविकमात्रम् । किन्तु मानवस्य ज्ञानं स्वाभाविकं नैमित्तिकञ्च । किम् ? किमर्थम् ? कथम् ? इत्यादीन् प्रश्नान् पृच्छन् ज्ञानं सम्पादयितुम् अर्हति मानवः । तेन श्रेष्ठताम् आप्तुम् अर्हति । अथवा अज्ञानसागरे एव निमज्जनं कुर्वन् क्षुल्लकः दानवः अपि भवेत् । आनन्द-सुख-शान्त्यादयः श्रेष्ठमानवानां सम्पत्तिः ! ज्ञानं नाम किम् ?
मादृशाः एव अन्ये । अन्तः बहिश्च समानता । अन्यस्य सम्पत्तिः मम मास्तु । इन्द्रियाणाम् अत्युपयोगः एव रोगस्य कारणम् । अनावश्यकं वस्तुसङ्ग्रहणं न करोमि । अन्तर्बहिः शुद्धश्चेदेव आनन्दानुभवः तृप्तिश्च । जीवने प्राप्यमाणस्य उन्नतेः अवनतेः च विषये समदृष्टिः । सत्यान्वेषणोत्सुका श्रद्धा । भगवता यद्यत् दत्तं तन्निमित्तं कृतज्ञता । - इत्येतेषाम् अवगमनेव ज्ञानसम्पादनम् ।