महिमा तेऽन्येन न सन्नशे ॥

(वेदसूक्तिः/महिमा तेऽन्येन न सन्नशे ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

महिमा तेऽन्येन न सन्नशे ॥ (यजुर्वेदः २३-३५) सम्पाद्यताम्

तव माहात्म्यम् अन्यैः न सिद्ध्यते ।

आत्मनः माहात्म्यं प्राप्तुं वयं सर्वेऽपि इच्छामः । किन्तु तच्च माहात्म्यम् अन्येषां परिश्रमेण प्राप्तं न स्यात् । यतः विना परिश्रमेण यत् प्राप्येत तस्य मौल्यं कदापि न ज्ञायते एव । अस्माकं निमित्तम् अन्ये कियत् कालं परिश्रमं कुर्युः ? तैः क्रियमाणस्य परिश्रमस्य फलम् अस्माभिः अनुभूयते इति जानद्भिः तैः तस्य निवारणाय प्रयत्नः विधीयते एव । अस्माभिः स्वयं परिश्रमः यदि न क्रियेत तर्हि आत्मविश्वासः न वर्धते एव । स्वावलम्बनमेव समाधानयुक्तस्य जीवनस्य सूत्रम् । प्रयत्नपूर्वकं प्राप्तं फलं तृप्तिं प्रयच्छति । इयं तृप्तिः यदा न भवति तदा अन्येषां श्लाघनप्राप्तोत्सुकाः भवामः ।