मा क्रुधः ॥

(वेदसूक्तिः/मा क्रुधः ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

मा क्रुधः ॥ (अथर्व ११-२-२०) सम्पाद्यताम्

कुपितः मा भव

मानवानां बह्व्यः अपेक्षाः । अपेक्षाः अवरुद्धाः यदि भवेयुः तर्हि अवरोधानां विषये कोपः भवति । अवरोधनिवारणमात्रं लक्ष्यं भवति नान्यत्किमपि । बुद्धिः निष्क्रिया भवति । अविवेकेन अकार्याणि कृतानि भवन्ति । कोपः न स्थिरः । किञ्चित्कालानन्तरं कोपः निर्गच्छति, बुद्धिः सक्रिया भवति । किन्तु कृतानि अकार्याणि परिवर्तयितुम् अशक्यानि । अपेक्षाः न दुष्टाः । किन्तु अपेक्षाः अर्थपूर्णाः स्युः । दुष्टायाः अपेक्षायाः अवरोधः यदि स्यात् तर्हि अपेक्षा परित्यक्तव्या, अवरोधविषये क्रोधः न युक्तः । उत्तमायाः अपेक्षायाः अवरोधः यदि भवेत्, तर्हि अवरोधकाः मूर्खाः इति जानद्भिः बोधनीयं न क्रोद्धव्यम् । अस्माकं ज्ञानस्य सहनायाश्च परीक्षा तदा एव भविष्यति ।
"https://sa.wikiquote.org/w/index.php?title=मा_क्रुधः_॥&oldid=2322" इत्यस्माद् प्रतिप्राप्तम्