मा गृधः कस्य स्विद्धनम् ॥

(वेदसूक्तिः/मा गृधः कस्य स्विद्धनम् ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

मा गृधः कस्य स्विद्धनम् ॥ (यजुर्वेदः ४०-१) सम्पाद्यताम्

अन्येषां सम्पत्तिः न अपहर्तव्या ।

ऐहिकजगति याः सम्पत्तयः इति निर्दिश्यन्ते तेषु काः अस्माभिः अत्रागमनावसरे आनीताः ? अपि च इतः गमनावसरे काः नेष्यामः ? न किञ्चित् । एतस्यां वस्तुस्थितौ का अस्माकं सम्पत्तिः ? अस्माकं कर्मणः अनुगुणं जननावसरे एव अस्माभिः किञ्चिदिव सम्पत्तिः प्राप्ता भवति । तस्य रक्षणम् अग्रिमपरम्परायै प्रदानञ्च अस्माकं कर्तव्यम् । सर्वाः सम्पत्तयः तस्य भगवतः एव । कर्मानुसारं कस्मै कियद् दातव्यम् इति निर्णयः तस्य एव । जन्मना प्राप्तायाः सम्पदः न्याययुतेन मार्गेण रक्षणं, वर्धनं च अस्माकं दायित्वम् । तात्कालिकीरूपेण एव सा भवति अस्मदीया । अस्मिन् मार्गे बलात् परिग्रहणस्य प्रसक्तिः एव नास्ति । बलात् स्वीकरणव्यवस्थायां यदि अन्तर्भूताः भवेम अथवा अनुमोदकाः भवेम तर्हि अस्मदीया सम्पत्तिः अन्यायरूपेण यदि अन्ये अपहरेयुः तदा अस्माभिः मौनं सोढव्यं भवति । इदम् अस्मभ्यं न रोचेत खेदाय भवेदपि । य्त् अस्माकं दुःखाय, वेदनायै भवति तत् कदापि अन्येषां कृते न करणीयमेव ।