मा पुरा जरसो मृथाः ॥

(वेदसूक्तिः/मा पुरा जरसो मृथाः ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

Meaning : Don't die before you are old.

मा पुरा जरसो मृथाः ॥ (अथर्ववेदः ५-३०-१७) सम्पाद्यताम्

वार्धक्यतः पूर्वं मृतः मा भव ।

सर्वैः मरणं तु प्राप्तव्यमेव । कोऽपि अत्रैव शाश्वतरूपेण भवितुं नार्हति । किन्तु कदा मरणं प्राप्तव्यं, कथं मरणं सम्मुखीकरणीयं, मरणपर्यन्तं किं करणीयम् इत्यादयः प्रश्नाः विद्यन्ते । इदं शरीरनामकं यन्त्रं यथा यथा उपयुञ्ज्महे तथा तथा दुर्वलं भविष्यति । दुरुपयोगेन शीघ्रं नश्यति । सदुपयोगेन दीर्घकालम् उपयोगाय भविष्यति । विनष्टं यन्त्रं परित्यज्य नूतनयन्त्रस्य प्राप्तिः एव पुनर्जन्म । इदं सिद्ध्यति मरणेनैव ! कुतो भयम् ?! मरणं यावत् यन्त्रं समीचीनतया उपयुक्तं चेत् भयं न बाधते । 'समीचीनं'नाम किम् ? अस्य यन्त्रस्य उपयोक्ता अस्ति आत्मा । स्वस्य उद्धारः बलवर्धनमेव तदीयः उद्देशः । आत्मबलस्य वर्धनेन भीतिः निर्गच्छति । जीवनं भोगाय एव इति यदि व्यवह्रियेत तर्हि रोगाः प्रविशेयुः, अपघाताः भवेयुः, अकाले वार्धक्यं बाधेत । सार्थकं जीवनं, सकाले वार्धक्यं, धैर्येण मरणप्राप्तिश्च अस्माकं भाग्यं स्यात् ।
"https://sa.wikiquote.org/w/index.php?title=मा_पुरा_जरसो_मृथाः_॥&oldid=17793" इत्यस्माद् प्रतिप्राप्तम्