मा भ्राता भ्रातरं द्विक्षत् ॥

(वेदसूक्तिः/मा भ्राता भ्रातरं द्विक्षत् ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

मा भ्राता भ्रातरं द्विक्षत् ॥ (अथर्व ३-३०-३) सम्पाद्यताम्

सहोदरः सहोदरं न द्विष्यात् ।

सहोदरा अपि सहोदरां न द्विष्यात् । अभिप्रायाणाम् आचरणानां च विरोधः, सम्पत्त्यादयः विषयः एव प्रायः द्वेषस्य कारणं भवति । रीतिनीतयः यदि समीचीनाः तर्हि विरोधः न कार्यः । समीचीनाः यदि न स्युः तर्हि अपि द्वेषः न कार्यः । शान्तिः, समाधानं, प्रीतिः, प्रेम, त्यागः, तृप्तिः, आरोग्यम् इत्यादयः एव जीवने महासम्पदाः । अशाश्वतस्य सम्पदस्य निमित्तं कलहः मौढ्यद्योतकः । शाश्वतस्य सम्पदस्य सम्पादने यत्नरताः स्याम ।