मित्रस्य चक्षुषा समीक्ष्यामहे ॥

मित्रस्य चक्षुषा समीक्ष्यामहे ॥ (यजुर्वेदः ३६-१८) सम्पाद्यताम्

परस्परं स्नेहेन पश्यामः ।

वेदैः कदापि हिंसा न प्रचोदिता इत्येतस्य साक्षीरूपा विद्यते इयं सूक्तिः । न केवलं मानवसमाजे अपि च समग्रे जीवजगति अयं मैत्रीभावः भवतु इत्येषः हृदयस्थः सदाशयः । वयं सर्वे शान्तिमेव इच्छामः । किन्तु युद्धैः भयोत्पादनैश्च इमां शान्तिं साधयितुं प्रयतामहे । अयं कश्चन महान् विरोधाभासः ! स्नेहभावाय अन्ये प्राणिनः यथा प्रतिस्पन्दन्ते तथा मानवः न प्रतिस्पन्दते इत्येतत् अधःपतनस्य प्रमाणं द्योतयति । यत्किमपि भवतु नाम, वयं तु सबलाः सन्तः मैत्रीमेव पालयामः । दुर्बलाः सन्तः मैत्रीपालनं भवेत् भीरुता । मैत्र्या एव दुर्जनान् परिष्कुर्मः । विश्वशान्त्यै इदं पन्थाह्वानम् अस्माभिः अङ्गीकरणीयमेव ।