यन्ति प्रमादमतन्द्राः ॥

(वेदसूक्तिः/यन्ति प्रमादमतन्द्राः ॥ इत्यस्मात् पुनर्निर्दिष्टम्)

यन्ति प्रमादमतन्द्राः ॥ (सामवेदः ७२१) सम्पाद्यताम्

अनालसाः आनन्दं प्राप्नुवन्ति ।

रूढौ 'मद' इत्येतस्य शब्दस्य भिन्नार्थः विद्यते चेदपि वैदिकसंस्कृते तु अस्य अर्थः 'हर्षः' इति । 'प्र' इत्युक्ते उत्कृष्टः इत्यर्थः । उत्तमः हर्षः एव 'प्रमादः' (मदोपसर्गे इत्येतस्मात् सूत्रात् दीर्घत्वम्) । इमं हर्षम् एव वयं सर्वे प्राप्तुम् अभिलषामहे । किन्तु इदं विना परिश्रमं न प्राप्यते । तन्निमित्तं प्रयासः कर्तव्यः । जगतः हितार्थं निष्कपटभावेन अस्माभिः तीव्रं कार्यं कर्तव्यम् । आलस्यभावेन, अनवधानेन, दुर्मार्गेण, पत्नीपुत्रादीनां निमित्तमात्रं वा यदि कार्यं क्रियेत तर्हि ततः श्रेष्ठः हर्षः, आनन्दश्च न प्राप्यते । हर्षः न प्राप्तः इत्यस्य अर्थः उपरि निर्दिष्टेषु कश्चन दोषः विद्यते एव इति । दोषस्य निवारणेन आनन्दः निश्चयेन प्राप्येत एव ।