वेदान्तविज्ञानसुनिश्चितार्थाः...

वेदान्तविज्ञानसुनिश्चितार्थाः
संन्यासयोगात् यतयः शुद्धसत्त्वाः । - मुण्डकोपनिषत् ३-२-६

वेदान्तविज्ञानेन सुनिश्चितार्थाः शुद्धसत्त्वाः यतयः संन्यासयोगात् परं ब्रह्म विज्ञाय ब्रह्मस्वरूपा एव भवन्ति ।

संन्यासिनो नाम वेदान्तचिन्तनतत्पराः । त्यक्तबाह्यानात्मवस्तु चिन्तना हि संन्यासिनः ? अध्ययनम्, अध्यापनम्,
यजनं, याजनं, दानं, प्रतिग्रहः इति हि शास्त्रीयाणि षट् कर्माणि भवन्ति । ये एतानि षडपि कर्माणि वेदान्तविचारार्थमेव
त्यक्तवन्तः ते एव हि संयासिनो नाम । अनात्मभूतेभ्यः अनित्येभ्यः लौकिकव्यवहारेभ्यः ये विदूरगामिनः ते एव हि
संन्यासिनः, यतयश्च ॥

वेदान्तानाम् अध्ययनेन जातं विज्ञानमेव वेदान्तविज्ञानम् । वेदान्तविज्ञानेन हि यतीनाम् आत्मस्वरूपम् निश्चितम् अवगम्यते ।
ईदृशाः ब्रह्मज्ञानिनः जीवन्त एव अमृताः ब्रह्मस्वरूपाश्च जाताः । तथा हि शाङ्करभाष्यवाक्यम् 'जीवन्त एव ब्रह्मभूताः यतयः
मुच्यन्ते इत्यर्थः' इति ॥