यत्र एकस्मिन् एव धर्मिणि धर्मद्वयस्य अपि आरोपः क्रियते तत्र व्यपदेश इति शास्त्रे किञ्चन नाम भवति । यथा एक एव पुत्रः भवति चेत् सः एव ज्येष्ठः स एव कनिष्ठ इति खलु व्यवह्रियते । एकस्मिन् एव पुत्ररुपे धर्मिणि ज्येष्ठत्व- कनिष्ठत्व रुपयोः धर्मयोः आरोपः क्रियते इति भावः । (व्याकरणशास्त्रे अपि अस्य प्रयोगः यथा – आद्यन्तवदेकस्मिन् (१-१-२०) इति पाण्नीयसूत्रे भाष्ये” तत्र व्यपदेशिवद्भावो वक्तव्यः व्यपदेशिवदेकस्मिन् कार्यं भवति इति वक्तव्यम्” । विशिष्टः अपदेशः व्यपदेशः मुख्यः व्यवहारः सः अस्य अस्ति इति व्यपदेशी मुख्य इति यावत् – बालमनोरमाटीकायां १-१-२१)

"https://sa.wikiquote.org/w/index.php?title=व्यपदेशिन्यायः&oldid=11139" इत्यस्माद् प्रतिप्राप्तम्